अध्याय 248
श्लोक 1
श्रीनारायण उवाच ।मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।कर्माशुभविपाकं च तामुवाच रवेः सुतः
śrīnārāyaṇa uvāca | māyābījaṃ mahāmantraṃ pradattvā vidhipūrvakam | karmāśubhavipākaṃ ca tāmuvāca raveḥ sutaḥ
अध्याय 248
श्रीनारायण उवाच ।मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।कर्माशुभविपाकं च तामुवाच रवेः सुतः
śrīnārāyaṇa uvāca | māyābījaṃ mahāmantraṃ pradattvā vidhipūrvakam | karmāśubhavipākaṃ ca tāmuvāca raveḥ sutaḥ
अध्याय 248
धर्मराज उवाच ।शुभकर्मविपाकान्न नरकं याति मानवः ।कर्माशुभविपाकं च कथयामि निशामय
dharmarāja uvāca | śubhakarmavipākānna narakaṃ yāti mānavaḥ | karmāśubhavipākaṃ ca kathayāmi niśāmaya
अध्याय 248
नानापुराणभेदेन नामभेदेन भामिनि ।नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः
nānāpurāṇabhedena nāmabhedena bhāmini | nānāprakāraṃ svargaṃ ca yāti jīvaḥ svakarmabhiḥ
अध्याय 248
शुभकर्मविपाकान्न नरकं याति कर्मभिः ।कुकर्मणा च नरकं याति नानाविधं नरः
śubhakarmavipākānna narakaṃ yāti karmabhiḥ | kukarmaṇā ca narakaṃ yāti nānāvidhaṃ naraḥ
अध्याय 248
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च
narakāṇāṃ ca kuṇḍāni santi nānāvidhāni ca | nānāśāstrapramāṇena karmabhedena yāni ca
अध्याय 248
विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् ।भयङ्कराणि घोराणि हे वत्से कुत्सितानि च
vistṛtāni ca gartāni kleśadāni ca duḥkhinām | bhayaṅkarāṇi ghorāṇi he vatse kutsitāni ca
अध्याय 248
षडशीति च कुण्डानि एवमन्यानि सन्ति च ।निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति
ṣaḍaśīti ca kuṇḍāni evamanyāni santi ca | nibodha teṣāṃ nāmāni prasiddhāni śrutau sati
अध्याय 248
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम्
vahnikuṇḍaṃ taptakuṇḍaṃ kṣārakuṇḍaṃ bhayānakam | viṭkuṇḍaṃ mūtrakuṇḍaṃ ca śleṣmakuṇḍaṃ ca duḥsaham
अध्याय 248
गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च ।शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम्
garakuṇḍaṃ dūṣikuṇḍaṃ vasākuṇḍaṃ tathaiva ca | śukrakuṇḍamasukkuṇḍamaśrukuṇḍaṃ ca kutsitam
अध्याय 248
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम्
kuṇḍaṃ gātramalānāṃ ca karṇaviṭkuṇḍameva ca | majjākuṇḍaṃ māṃsakuṇḍaṃ nakrakuṇḍaṃ ca dustaram
अध्याय 248
लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् ।ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत्
lomakuṇḍaṃ keśakuṇḍamasthikuṇḍaṃ ca dustaram | tāmrakuṇḍaṃ lohakuṇḍaṃ prataptaṃ kleśadaṃ mahat
अध्याय 248
चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् ।तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम्
carmakuṇḍaṃ taptasurākuṇḍaṃ ca parikīrtitam | tīkṣṇakaṇṭakakuṇḍaṃ ca viṣodaṃ viṣakuṇḍakam
अध्याय 248
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् ।कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम्
prataptakuṇḍaṃ tailasya kuntakuṇḍaṃ ca durvaham | kṛmikuṇḍaṃ pūyakuṇḍaṃ sarpakuṇḍaṃ durantakam
अध्याय 248
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते
maśakuṇḍaṃ daṃśakuṇḍaṃ bhīmaṃ garalakuṇḍakam | kuṇḍaṃ ca vajradaṃṣṭrāṇāṃ vṛścikānāṃ ca suvrate
अध्याय 248
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम्
śarakuṇḍaṃ śūlakuṇḍaṃ khaḍgakuṇḍaṃ ca bhīṣaṇam | golakuṇḍaṃ nakrakuṇḍaṃ kākakuṇḍaṃ śucāspadam
अध्याय 248
मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् ।तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम्
manthānakuṇḍaṃ bījakuṇḍaṃ vajrakuṇḍaṃ ca duḥsaham | taptapāṣāṇakuṇḍaṃ ca tīkṣṇapāṣāṇakuṇḍakam
अध्याय 248
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च ।चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम्
lālākuṇḍaṃ masīkuṇḍaṃ cūrṇakuṇḍaṃ tathaiva ca | cakrakuṇḍaṃ vakrakuṇḍaṃ kūrmakuṇḍaṃ maholbaṇam
अध्याय 248
ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते ।तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम्
jvālākuṇḍaṃ bhasmakuṇḍaṃ dagdhakuṇḍaṃ śucismite | taptasūcīmasipatraṃ kṣuradhāraṃ sūcīmukham
अध्याय 248
गोकामुख नक्रमुखं गजदंशं च गोमुखम् ।कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम्
gokāmukha nakramukhaṃ gajadaṃśaṃ ca gomukham | kumbhīpākaṃ kālasūtraṃ matsyodaṃ kṛmitantukam
अध्याय 248
पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।उल्कामुखमन्धकूपं वेधनं ताडनं तथा
pāṃsubhojyaṃ pāśaveṣṭaṃ śūlaprotaṃ prakampanam | ulkāmukhamandhakūpaṃ vedhanaṃ tāḍanaṃ tathā
अध्याय 248
जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् ।शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम्
jālarandhraṃ dehacūrṇaṃ dalanaṃ śoṣaṇaṃ kaṣam | śūrpaṃ jvālāmukhaṃ caiva dhūmāndhaṃ nāgaveṣṭanam
अध्याय 248
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।नियुतैः किङ्करगणै रक्षितानि च सन्ततम्
kuṇḍānyetāni sāvitri pāpināṃ kleśadāni ca | niyutaiḥ kiṅkaragaṇai rakṣitāni ca santatam
अध्याय 248
दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः ।शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः
daṇḍahastaiḥ pāśahastairmadamattairbhayaṅkaraiḥ | śaktihastairgadāhastairasihastaiḥ sudāruṇaiḥ
अध्याय 248
तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः ।तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः
tamoyuktairdayāhīnairnivāryaiśca na sarvataḥ | tejasvibhiśca niḥśaṅkairātāmrapiṅgalocanaiḥ
अध्याय 248
योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः ।आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः
yogayuktaiḥ siddhiyuktairnānārūpadharairbhaṭaiḥ | āsannamṛtyubhirdṛṣṭaiḥ pāpibhiḥ sarvajīvibhiḥ
अध्याय 248
स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः ।अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च
svakarmanirataiḥ sarvaiḥ śāktaiḥ sauraiśca gāṇapaiḥ | adṛśyaiḥ puṇyakṛdbhiśca siddhairyogibhireva ca
अध्याय 248
स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः ।बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः
svadharmaniratairvāpi vitatairvā svatantrakaiḥ | balavadbhiśca niḥśaṅkaiḥ svapnadṛṣṭaiśca vaiṣṇavaiḥ
अध्याय 248
एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् ।येषां निवासो यत्कुण्डे निबोध कथयामि ते
etatte kathitaṃ sādhvi kuṇḍasaṅkhyānirūpaṇam | yeṣāṃ nivāso yatkuṇḍe nibodha kathayāmi te
पाठ सेटिंग्स · Reading settings
भाषा एवं सामग्री · Language and layers
धर्म ग्रंथ निःशुल्क और विज्ञापन-रहित है। Dharma Granth is free and has no ads. इसे ऐसा बनाए रखने में सहयोग करेंHelp keep it that way → How it is funded
धर्म ग्रंथ पर मूल शास्त्र, पारंपरिक भाष्य और आधुनिक व्याख्या को पूर्णतः पृथक रखा जाता है ताकि पाठक को किसी भी व्याख्या के शास्त्र होने का भ्रम न हो।
अपौरुषेय / प्रामाणिक शास्त्र (Primary Canonical Scripture)
मूल संस्कृत, प्राकृत अथवा अवधी श्लोक/मंत्र। यह सर्वोच्च प्रमाण (प्रस्थान) है। इस पाठ में किसी भी आधुनिक व्याख्याकार का हस्तक्षेप नहीं है।
पदार्थ व अन्वय (Direct Grammatical & Word-for-Word Meaning)
व्याकरणसम्मत प्रत्यक्ष शब्दार्थ (अन्वय)। बिना किसी दार्शनिक संप्रदाय के पूर्वाग्रह के, संस्कृत शब्दों का सटीक भाषांतर।
आचार्य परंपरा व टीका (Classical Lineage Commentary)
प्राचीन आचार्य परंपरा (यथा शंकराचार्य, रामानुजाचार्य, मध्वाचार्य, श्रीधर स्वामी) द्वारा विरचित शास्त्रीय भाष्य व टीकाएं।
भावार्थ व सुबोध प्रबोधन (Accessible Pedagogical Exposition)
आधुनिक जिज्ञासुओं के लिए सरल भाषा में भावार्थ। यह मूल मंत्र नहीं, बल्कि पाठ को सुगम बनाने हेतु संपादकीय व्याख्या है।
समसामयिक विमर्श व अनुप्रयोग (Contemporary Application & Analysis)
दार्शनिक, मनोवैज्ञानिक व वैज्ञानिक समरूपताओं पर आधुनिक चिंतन। यह मूल शास्त्र का अंग नहीं है और इसे शास्त्रोक्त सिद्धांत के रूप में नहीं देखा जाना चाहिए।
पांडुलिपि एवं ऐतिहासिक शोध (Critical Apparatus & Manuscript Research)
पांडुलिपि विविधताएं, पाठ-भेद (variant readings), छंद रचना, और ऐतिहासिक व तुलनात्मक भाषावैज्ञानिक शोध। यह शास्त्र का मूल संदेश बदलने हेतु नहीं, बल्कि पाठ की प्रामाणिकता परखने के लिए है।
Collated with Nilakantha Bhashya recension.