अध्याय 255
श्लोक 1
नारद उवाच ।श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः
nārada uvāca | śrīmūlaprakṛterdevyā gāyatryāstu nirākṛteḥ | sāvitrīyamasaṃvāde śrutaṃ vai nirmalaṃ yaśaḥ
अध्याय 255
नारद उवाच ।श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः
nārada uvāca | śrīmūlaprakṛterdevyā gāyatryāstu nirākṛteḥ | sāvitrīyamasaṃvāde śrutaṃ vai nirmalaṃ yaśaḥ
अध्याय 255
तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् ।अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर
tadguṇotkīrtanaṃ satyaṃ maṅgalānāṃ ca maṅgalam | adhunā śrotumicchāmi lakṣmyupākhyānamīśvara
अध्याय 255
केनादौ पूजिता सापि किम्भूता केन वा पुरा ।तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर
kenādau pūjitā sāpi kimbhūtā kena vā purā | tadguṇotkīrtanaṃ mahyaṃ vada vedavidāṃvara
अध्याय 255
श्रीनारायण उवाच ।सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।देवी वामांससम्भूता बभूव रासमण्डले
śrīnārāyaṇa uvāca | sṛṣṭerādau purā brahman kṛṣṇasya paramātmanaḥ | devī vāmāṃsasambhūtā babhūva rāsamaṇḍale
अध्याय 255
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता ।यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना
atīva sundarī śyāmā nyagrodhaparimaṇḍitā | yathā dvādaśavarṣīyā śaśvatsusthirayauvanā
अध्याय 255
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना
śvetacampakavarṇābhā sukhadṛśyā manoharā | śaratpārvaṇakoṭīnduprabhāpracchādanānanā
अध्याय 255
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया
śaranmadhyāhnapadmānāṃ śobhāmocanalocanā | sā devī dvividhā bhūtā saha sarveśvarecchayā
अध्याय 255
स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा ।यशसा वाससा कृत्या भूषणेन गुणेन च
svīyarūpeṇa varṇena tejasā vayasā tviṣā | yaśasā vāsasā kṛtyā bhūṣaṇena guṇena ca
अध्याय 255
स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च ।तद्वामांसान्महालक्ष्मीर्दक्षिणासाञ्च्च राधिका
smitena vīkṣaṇenaiva premṇā vānunayena ca | tadvāmāṃsānmahālakṣmīrdakṣiṇāsāñcca rādhikā
अध्याय 255
राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् ।महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम्
rādhā''dau varayāmāsa dvibhujañca parātparam | mahālakṣmīśca tatpaścāccakame kamanīyakam
अध्याय 255
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ।दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः
kṛṣṇastadgauraveṇaiva dvidhārūpo babhūva ha | dakṣiṇāṃsaśca dvibhujo vāmāṃsaśca caturbhujaḥ
अध्याय 255
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ।लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम्
caturbhujāya dvibhujo mahālakṣmīṃ dadau purā | lakṣyate dṛśyate viśvaṃ snigdhadṛṣṭyā yayāniśam
अध्याय 255
देवीभूता च महती महालक्ष्मीश्च सा स्मृता ।राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः
devībhūtā ca mahatī mahālakṣmīśca sā smṛtā | rādhākāntaśca dvibhujo lakṣmīkāntaścaturbhujaḥ
अध्याय 255
शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता ।चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह
śuddhasattvasvarūpā ca gopairgopībhirāvṛtā | caturbhujaśca vaikuṇṭhaṃ prayayau padmayā saha
अध्याय 255
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ ।महालक्ष्मीश्च योगेन नानारूपा बभूव सा
sarvāṃśena samau tau dvau kṛṣṇanārāyaṇau parau | mahālakṣmīśca yogena nānārūpā babhūva sā
अध्याय 255
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ।शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता
vaikuṇṭhe ca mahālakṣmīḥ paripūrṇatamā ramā | śuddhasattvasvarūpā ca sarvasaubhāgyasaṃyutā
अध्याय 255
प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च ।स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी
premṇā sā ca pradhānā ca sarvāsu ramaṇīṣu ca | svargeṣu svargalakṣmīśca śakrasampatsvarūpiṇī
अध्याय 255
पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः
pātāle nāgalakṣmīśca rājalakṣmīśca rājasu | gṛhalakṣmīrgṛheṣveva gṛhiṇāṃ ca kalāṃśataḥ
अध्याय 255
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला ।गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी
sampatsvarūpā gṛhiṇāṃ sarvamaṅgalamaṅgalā | gavāṃ prasūtiḥ surabhirdakṣiṇā yajñakāminī
अध्याय 255
क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ।शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता
kṣīrodasindhukanyā sā śrīrūpā padminīṣu ca | śobhāsvarūpā candre ca sūryamaṇḍalamaṇḍitā
अध्याय 255
विभूषणेषु रत्नेषु फलेषु च जलेषु च ।नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च
vibhūṣaṇeṣu ratneṣu phaleṣu ca jaleṣu ca | nṛpeṣu nṛpapatnīṣu divyastrīṣu gṛheṣu ca
अध्याय 255
सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ।प्रतिमासु च देवानां मङ्गलेषु घटेषु च
sarvasasyeṣu vastreṣu sthāneṣu saṃskṛteṣu ca | pratimāsu ca devānāṃ maṅgaleṣu ghaṭeṣu ca
अध्याय 255
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ।मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च
māṇikyeṣu ca muktāsu mālyeṣu ca manoharā | maṇīndreṣu ca hīreṣu kṣīreṣu candaneṣu ca
अध्याय 255
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ।वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च
vṛkṣaśākhāsu ramyāsu navamegheṣu vastuṣu | vaikuṇṭhe pūjitā sā''dau devī nārāyaṇena ca
अध्याय 255
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ।विष्णुना पूजिता सा च क्षीरोदे भारते मुने
dvitīye brahmaṇā bhaktyā tṛtīye śaṅkareṇa ca | viṣṇunā pūjitā sā ca kṣīrode bhārate mune
अध्याय 255
स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः ।ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे
svāyambhuvena manunā mānavendreśca sarvataḥ | ṛṣīndraiśca munīndraiśca sadbhiśca gṛhibhirbhave
अध्याय 255
गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता ।शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा
gandharvaiścaiva nāgādyaiḥ pātāleṣu ca pūjitā | śuklāṣṭamyāṃ bhādrapade kṛtā pūjā ca brahmaṇā
अध्याय 255
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ।चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे
bhaktyā ca pakṣaparyantaṃ triṣu lokeṣu nārada | caitre pauṣe ca bhādre ca puṇye maṅgalavāsare
अध्याय 255
विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः ।वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले
viṣṇunā pūjitā sā ca triṣu lokeṣu bhaktitaḥ | varṣānte pauṣasaṅkrāntyāṃ mādhyāmāvāhya maṅgale
अध्याय 255
मनुस्तां पूजयामास सा भूता भुवनत्रये ।पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला
manustāṃ pūjayāmāsa sā bhūtā bhuvanatraye | pūjitā sā mahendreṇa maṅgalenaiva maṅgalā
अध्याय 255
केदारेणैव नीलेन सुबलेन नलेन च ।ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा
kedāreṇaiva nīlena subalena nalena ca | dhruveṇottānapādena śakreṇa balinā tathā
अध्याय 255
कश्यपेन च दक्षेण कर्दमेन विवस्वता ।प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना
kaśyapena ca dakṣeṇa kardamena vivasvatā | priyavratena candreṇa kubereṇaiva vāyunā
अध्याय 255
यमेन वह्निना चैव वरुणेनैव पूजिता ।एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा ।सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी
yamena vahninā caiva varuṇenaiva pūjitā | evaṃ sarvatra sarveṣu pūjitā vanditā sadā | sarveśvaryādhidevī sā sarvasampatsvarūpiṇī
पाठ सेटिंग्स · Reading settings
भाषा एवं सामग्री · Language and layers
धर्म ग्रंथ निःशुल्क और विज्ञापन-रहित है। Dharma Granth is free and has no ads. इसे ऐसा बनाए रखने में सहयोग करेंHelp keep it that way → How it is funded
धर्म ग्रंथ पर मूल शास्त्र, पारंपरिक भाष्य और आधुनिक व्याख्या को पूर्णतः पृथक रखा जाता है ताकि पाठक को किसी भी व्याख्या के शास्त्र होने का भ्रम न हो।
अपौरुषेय / प्रामाणिक शास्त्र (Primary Canonical Scripture)
मूल संस्कृत, प्राकृत अथवा अवधी श्लोक/मंत्र। यह सर्वोच्च प्रमाण (प्रस्थान) है। इस पाठ में किसी भी आधुनिक व्याख्याकार का हस्तक्षेप नहीं है।
पदार्थ व अन्वय (Direct Grammatical & Word-for-Word Meaning)
व्याकरणसम्मत प्रत्यक्ष शब्दार्थ (अन्वय)। बिना किसी दार्शनिक संप्रदाय के पूर्वाग्रह के, संस्कृत शब्दों का सटीक भाषांतर।
आचार्य परंपरा व टीका (Classical Lineage Commentary)
प्राचीन आचार्य परंपरा (यथा शंकराचार्य, रामानुजाचार्य, मध्वाचार्य, श्रीधर स्वामी) द्वारा विरचित शास्त्रीय भाष्य व टीकाएं।
भावार्थ व सुबोध प्रबोधन (Accessible Pedagogical Exposition)
आधुनिक जिज्ञासुओं के लिए सरल भाषा में भावार्थ। यह मूल मंत्र नहीं, बल्कि पाठ को सुगम बनाने हेतु संपादकीय व्याख्या है।
समसामयिक विमर्श व अनुप्रयोग (Contemporary Application & Analysis)
दार्शनिक, मनोवैज्ञानिक व वैज्ञानिक समरूपताओं पर आधुनिक चिंतन। यह मूल शास्त्र का अंग नहीं है और इसे शास्त्रोक्त सिद्धांत के रूप में नहीं देखा जाना चाहिए।
पांडुलिपि एवं ऐतिहासिक शोध (Critical Apparatus & Manuscript Research)
पांडुलिपि विविधताएं, पाठ-भेद (variant readings), छंद रचना, और ऐतिहासिक व तुलनात्मक भाषावैज्ञानिक शोध। यह शास्त्र का मूल संदेश बदलने हेतु नहीं, बल्कि पाठ की प्रामाणिकता परखने के लिए है।
Collated with Nilakantha Bhashya recension.